श्री स्कन्दपुराणे स्कन्दप्रोक्तं शाकम्भरी कवच
शक्र उवाच – शाकम्भर्यास्तु कवचं सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे कथय षण्मुख ॥ १॥
स्कन्द उवाच – शक्र शाकम्भरीदेव्याः कवचं सिद्धिदायकम् । कथयामि महाभाग श्रुणु सर्वशुभावहम् ॥ २॥
अस्य श्री शाकम्भरी कवचस्य स्कन्द ऋषिः । शाकम्भरी देवता । अनुष्टुप्छन्दः । चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् । शूलं खड्गं च डमरुं दधानामभयप्रदम् । सिंहासनस्थां ध्यायामि देवी शाकम्भरीमहम् ॥ ३॥
अथ कवचम् । शाकम्भरी शिरः पातु नेत्रे मे रक्तदन्तिका । कर्णो रमे नन्दजः पातु नासिकां पातु पार्वती ॥ ४॥
ओष्ठौ पातु महाकाली महालक्ष्मीश्च मे मुखम् । महासरस्वती जिह्वां चामुण्डाऽवतु मे रदाम् ॥ ५॥
कालकण्ठसती कण्ठं भद्रकाली करद्वयम् । हृदयं पातु कौमारी कुक्षिं मे पातु वैष्णवी ॥ ६॥
नाभिं मेऽवतु वाराही ब्राह्मी पार्श्वे ममावतु । पृष्ठं मे नारसिंही च योगीशा पातु मे कटिम् ॥ ७॥
ऊरु मे पातु वामोरुर्जानुनी जगदम्बिका । जङ्घे मे चण्डिकां पातु पादौ मे पातु शाम्भवी ॥ ८॥
शिरःप्रभृति पादान्तं पातु मां सर्वमङ्गला । रात्रौ पातु दिवा पातु त्रिसन्ध्यं पातु मां शिवा ॥ ९॥
गच्छन्तं पातु तिष्ठन्तं शयानं पातु शूलिनी । राजद्वारे च कान्तारे खड्गिनी पातु मां पथि ॥ १०॥
सङ्ग्रामे सङ्कटे वादे नद्युत्तारे महावने । भ्रामणेनात्मशूलस्य पातु मां परमेश्वरी ॥ ११॥
गृहं पातु कुटुम्बं मे पशुक्षेत्रधनादिकम् । योगक्षैमं च सततं पातु मे बनशङ्करी ॥ १२॥
इतीदं कवचं पुण्यं शाकम्भर्याः प्रकीर्तितम् । यस्त्रिसन्ध्यं पठेच्छक्र सर्वापद्भिः स मुच्यते ॥ १३॥
तुष्टिं पुष्टिं तथारोग्यं सन्ततिं सम्पदं च शम् । शत्रुक्षयं समाप्नोति कवचस्यास्य पाठतः ॥ १४॥
शाकिनीडाकिनीभूत बालग्रहमहाग्रहाः । नश्यन्ति दर्शनात्त्रस्ताः कवचं पठतस्त्विदम् ॥ १५॥
सर्वत्र जयमाप्नोति धनलाभं च पुष्कलम् । विद्यां वाक्पटुतां चापि शाकम्भर्याः प्रसादतः ॥ १६॥
आवर्तनसहस्रेण कवचस्यास्य वासव । यद्यत्कामयतेऽभीष्टं तत्सर्वं प्राप्नुयाद् ध्रुवम् ॥ १७॥
॥ इति श्री स्कन्दपुराणे स्कन्दप्रोक्तं शाकम्भरी कवचं सम्पूर्णम् ॥