Ramraksha Sharanam Prapadye

Ramraksha Sharanam Prapadye

Ramraksha Sharanam Prapadye

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

मूलम्
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

पदच्छेदः
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

अन्वयः
लोकाभिरामं, रणरङ्गधीरं, राजीवनेत्रं, रघुवंशनाथं,कारुण्यरूपं, करुणाकरं, तं श्रीरामचन्द्रम् (अहं) शरणं प्रपद्ये॥३२॥

सरलार्थः
लोके सुन्दरं, रणाङ्गणे धैर्यशीलं, कमलनेत्रं, रघुवंशस्य स्वामिनं, करुणामयं, करुणाकरं, तं श्रीरामचन्द्रम् अहं शरणं गच्छामि॥३२॥

लोकाभिरामम्
लोकेषु अभिरामः लोकाभिरामः, तम्।

रणरङ्गधीरम्
रणम् रङ्गः इव रणरङ्गः।
रणरङ्गे धीरः रणरङ्गधीरः, तम्।

राजीवनेत्रम्
राजीवम् इव नेत्रं यस्य सः राजीवनेत्रः, तम्।

रघुवंशनाथम्
रघूणां वंशः रघुवंशः।… षष्ठी।२.२.८
रघुवंशस्य नाथः रघुवंशनाथः, तम्।

कारुण्यरूपम्
कारुण्यं रूपं यस्य सः कारुण्यरूपः,तम्।

लोकांना आनंद देणारे. रणांगणात धैर्य धरणारे. कमळाप्रमाणे नेत्र असलेले. रघु वंशाचा अधिपती आणि दयेची मूर्ती, करूणेचा सागर असे श्री रामचंद्र त्यांना  मी शरण आलो आहे.

लोकांना प्रिय असलेल्या, रणांगणावर धीरगंभीर असलेल्या, कमळाप्रमाने नेत्र असलेल्या, रघुवंशात श्रेष्ठ असलेल्या, कारुण्याची मूर्ति असलेल्या, दया करणाऱ्या अशा प्रभू  श्रीरामांना मी वंदन करतो.