Ramraksha Valmiki Kokilam
कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
मूलम्
कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
पदच्छेदः
कूजन्तं राम राम इति मधुरं मधुर-अक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
अन्वयः
कविताशाखाम् आरुह्य, राम राम इति मधुर-अक्षरं मधुरं कूजन्तं वाल्मीकि-कोकिलम् (अहं) वन्दे ॥३४॥
सरलार्थः
वाल्मीकिरूपः कोकिलः कवितारूपां शाखाम् आरुह्य, राम राम इति मधुर-अक्षरं नाम मधुरवाण्या गायति। तम् वाल्मीकिकोकिलम् अहं वन्दे ॥३४॥
मधुराक्षरम्
मधुरम् अक्षरं यस्मिन् तत् मधुराक्षरं (नाम)।
कविताशाखाम्
कविता शाखा इव,ताम्।
वाल्मीकिकोकिलम्
वाल्मीकिः कोकिलः इव वाल्मीकिकोकिलः, तम्।
आता या ठिकाणी वाल्मिकी ऋषींना देखील वंदन केलेलं आहे. कविता रुपी फांदीवर बसून रामराम अशा मधुर ( गोड) अक्षरांच मधुर गुंजन करणाऱ्या वाल्मिकी रुपी कोकिळेला मी वंदन करतो.
कवितेच्या शाखेवर बसून वाल्मिकीरूपी कोकिळ राम राम अशा मधुर अक्षरांचे कूजन करत आहे, त्या वाल्मिकीरूपी कोकिळेला मी वंदन करतो.