Ramraksha Chhadma Charin
पातालभूतलव्योम चारिणश्छद्मचारिण:
–
पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥
–
पाताल-भूतल-व्योम-चारिणः छद्मचारिणः । न द्रष्टुम् अपि शक्ताः ते रक्षितं रामनामभिः ॥११॥
–
(ये) पाताल-भूतल-व्योम-चारिणः छद्मचारिणः,ते रामनामभिः रक्षितं (जनं) द्रष्टुम् अपि न शक्ताः ॥११॥
–
पाताले भूतले अथवा आकाशे ये गुप्तरीत्या चरन्ति, ते रामनाम्ना रक्षितं मानवं वक्रदृष्ट्या द्रष्टुम् अपि समर्थाः न भवन्ति॥११
–
सन्धिः | विग्रहः | |
---|---|---|
चारिणश्छद्मचारिणः | चारिणस्- छद्मचारिणः |
–
पातालभूतलव्योमचारिणः
पातलं च भूतलं च व्योम च पातालभूतलव्योमानि।…
पातालभूतलव्योमसु चारिणः पातालभूतलव्योमचारिणः।…
छद्मचारिणः
छद्मं चारिणः ।…
रामनामभिः
रामस्य नामानि रामनामानि, तैः।…
–
पातालभूतलव्योम चारिणश्छद्मचारिणः – याची फोड पातालभूतलव्योमचारिण: + छद्मचारिणः अशी आहे.
पातालभूतलव्योमचारिण: – पाताळ, भूमी आणि आकाश या तिन्ही लोकांत संचार करणारे,
छद्मचारिणः – कपटी, मायावी खोटे सोंग घेणारे (राक्षस)
रामनामाने रक्षिलेल्या लोकांकडे असे मायावी आणि कपटी राक्षस नजर वर उचलून पण पाहू शकत नाहीत.
–
शुभमस्तु ।