Ramraksha Bhukti Mukti

Ramraksha Bhukti Mukti

Ramraksha Bhukti Mukti

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ । नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

मूलम्
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१२॥

पदच्छेदः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् । नरः न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥१२॥

अन्वयः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् नरः पापैः न लिप्यते।सः भुक्तिं मुक्तिं च विन्दति ॥१२॥

सरलार्थः
यः नरः राम इति अथवा रामभद्र इति अथवा रामचन्द्र इति नामस्मरणं करोति, तस्य पापलेपः न भवति।सः भोगमपि प्राप्नोति, मोक्षमपि प्राप्नोति॥१२

सन्धिःविग्रहः 
रामेतिराम-इति 
रामभद्रेतिरामभद्र-इति 
रामचन्द्रेतिरामचन्द्र-इति 
नरो ननरस् न 
पापैर्भुक्तिंपापैः भुक्तिं 

समासविग्रहः१२

रामभद्र
रामः च अयं भद्रःच।… विशेषणं विशेषेण बहुलम्।

रामचन्द्रः
रामः चन्द्रः इव।…उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 

राम अथवा रामभद्र अथवा रामचंद्र या नावाने जो स्मरण करतो तो मनुष्य कधीही पापाने लिप्त होत नाही व त्याला सुखोपभोग आणि मुक्ति मिळतात.

शुभमस्तु ।