Ramraksha Kanthe Dharayet

Ramraksha Kanthe Dharayet

Ramraksha Kanthe Dharayet

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥

मूलम्
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥

पदच्छेदः
जगत्-जेत्रा एकमन्त्रेण रामनाम्ना अभिरक्षितम् । यः कण्ठे धारयेत् तस्य करस्थाः सर्वसिद्धयः ॥१३॥

अन्वयः
यः जगत्-जेत्रा रामनाम्ना एकमन्त्रेण अभिरक्षितम् (एतत् स्तोत्रं) कण्ठे धारयेत्, तस्य सर्वसिद्धयः करस्थाः (भवन्ति)॥१३॥

सरलार्थः
रामनाम इति एषः एकः मन्त्रः जगत् जयति।तेन मन्त्रेण एतत् रामरक्षास्तोत्रं रक्षितम् अस्ति।यः जनः एतत् स्तोत्रं कण्ठे धारयति, तस्य सर्वाः सिद्धयः हस्तगताः भवन्ति॥१३॥

सन्धिविग्रहः

सन्धिःविग्रहः 
जगज्जेत्राजगत्-जेत्रा 
जेत्रैकमन्त्रेणजेत्रा-एकमन्त्रेण 
रामनाम्नाभिरक्षितम्रामनाम्ना-अभिरक्षितम् 

 

समासविग्रहः १३
जगज्जेत्रा
जगतः जेता जगज्जेता, तेन।… षष्ठी।

एकमन्त्रेण
एकः मन्त्रः एकमन्त्रः, तेन।… विशेषणं विशेषेण बहुलम्।
रामनाम्ना
रामस्य नाम रामनाम, तेन।… षष्ठी।

करस्थाः
करे तिष्ठन्ति इति करस्थाः।… उपपदमतिङ्।

सर्वसिद्धयः
सर्वाः सिद्धयः सर्वसिद्धयः।.. विशेषणं विशेषेण बहुलम्।

 

सर्व जग जिंकणाऱ्या या रामनामरूपी एका मंत्राने मनुष्याचे सर्व बाजूंनी रक्षण होते.

जो हा मंत्र कंठात धारण करतो (पाठ करतो) त्याच्या हातात सर्व सिद्धी येतात.