Ramraksha Agratah

Ramraksha Agratah

Ramraksha Agratah

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम् रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥

बाण लावून सज्ज केलेले धनुष्य धारण केलेले,

पुढे जाणाऱ्या बाणांचा कधीही न संपणारा अक्षय भाता जवळ असलेले,

(श्रीराम व लक्ष्मण) माझ्या रक्षणाकरता मार्गामध्ये नेहमी माझापुढे चालत राहोत अशी प्रार्थना आहे.

मूलम्
आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषड्गसड्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२०॥

पदच्छेदः
आत्तसज्यधनुषौ इषुस्पृशौ अक्षय-आशुग-निषड्ग-सड्गिनौ । रक्षणाय मम रामलक्ष्मणौ अग्रतः पथि सदैव गच्छताम् ॥२०॥

अन्वयः
आत्तसज्यधनुषौ, इषुस्पृशौ, अक्षय-आशुग-निषड्ग-सड्गिनौ रामलक्ष्मणौ मम रक्षणाय पथि सदैव अग्रतः गच्छताम् ॥२०॥

सरलार्थः
ज्यासहितधनुषी स्वीकृतवन्तौ, बाणं स्पृशन्तौ, अक्षयबाणानां तूणीरं वहन्तौ रामलक्ष्मणौ मम रक्षार्थं मार्गे सदैव मम अग्रे चलताम्॥२०