Ramraksha Vedhse

Ramraksha Vedhse

Ramraksha Vedhse

रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥

मूलम्
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥

पदच्छेदः
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥

अन्वयः
रामाय, रामभद्राय, रामचन्द्राय, वेधसे, रघुनाथाय, नाथाय, सीतायाः पतये नमः ॥२७॥

सरलार्थः
रामाय नमः। रामभद्राय नमः। रामचन्द्राय नमः। विष्णवे नमः। रघुनाथाय नमः। नाथाय नमः। सीतायाः पतये नमः ॥२७॥

रामभद्राय
रामः भद्रः इव रामभद्रः, तस्मै।

रामचन्द्राय
रामः चन्द्रः इव रामचन्द्रः,तस्मै।

रघुनाथाय
रघूणां नाथः रघुनाथः,तस्मै।

राम, रामभद्र, रामचंद्र, वेधस ( ब्रम्हा / विष्णू / प्रजापती ), रघुनाथ, नाथ अशी ज्याची नावे आहेत त्या सीता पतीला म्हणजे सीतेच्या पतीला अर्थात रामचंद्रांना माझा नमस्कार असो.