Ramraksha Karunarnav

Ramraksha Karunarnav

Ramraksha Karunarnav

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

पदच्छेदः
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोक-अभिरामं रघुकुलतिलकं राघवं रावण-अरिम् ॥२६॥

अन्वयः
(अहं) लक्ष्मणपूर्वजं, रघुवरं, सीतापतिं, सुन्दरं,काकुत्स्थं, करुणार्णवं, गुणनिधिं, विप्रप्रियं, धार्मिकं,राजेन्द्रं, सत्यसन्धं, दशरथतनयं, श्यामलं, शान्तमूर्तिं, लोक-अभिरामं, रघुकुलतिलकं, राघवं, रावण-अरिम्, रामं वन्दे ॥२६॥

सरलार्थः
लक्ष्मणस्य अग्रजं, रघुकुले श्रेष्ठं, सीतायाः पतिं, सुन्दरं, ककुत्स्थकुले जातं, करुणासागरं, गुणस्य निधिं, विप्रेभ्यः प्रियं, धार्मिकं, राजेन्द्रं, सत्यपक्षधरं, दशरथस्य पुत्रं श्यामलवर्णं, शान्ताकृतिं, लोकेषु सुन्दरं, रघुकुलस्य तिलकस्वरूपं, रघुकुलजं, रावणस्य विनाशकं रामम् अहं वन्दे॥२६

लक्ष्मणाचा मोठा भाऊ रघुकुला मध्ये श्रेष्ठ आहे.सीतेचा पती सुंदर आहे.तो दयेचा सागर आहे.त्याच्याकडे सगळे सद्गुण एकवटलेले आहेत.त्याला ब्राह्मण प्रिय आहेत.तो धार्मिक वृत्तीचा आहे.

तो सावळ्या वर्णाचा आहे.तो शांत मूर्ती आहे.तो लोकांना आनंद देणारा आहे.रघुकुळाला तीलका प्रमाणे शोभणारा आहे.