Ramraksha Bhukti Mukti
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥
मूलम्
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१२॥
पदच्छेदः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् । नरः न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥१२॥
अन्वयः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् नरः पापैः न लिप्यते।सः भुक्तिं मुक्तिं च विन्दति ॥१२॥
सरलार्थः
यः नरः राम इति अथवा रामभद्र इति अथवा रामचन्द्र इति नामस्मरणं करोति, तस्य पापलेपः न भवति।सः भोगमपि प्राप्नोति, मोक्षमपि प्राप्नोति॥१२
सन्धिः | विग्रहः | |
---|---|---|
रामेति | राम-इति | |
रामभद्रेति | रामभद्र-इति | |
रामचन्द्रेति | रामचन्द्र-इति | |
नरो न | नरस् न | |
पापैर्भुक्तिं | पापैः भुक्तिं |
समासविग्रहः१२
रामभद्र
रामः च अयं भद्रःच।… विशेषणं विशेषेण बहुलम्।
‘रामचन्द्रः
रामः चन्द्रः इव।…उपमितं व्याघ्रादिभिः सामान्याप्रयोगे
राम अथवा रामभद्र अथवा रामचंद्र या नावाने जो स्मरण करतो तो मनुष्य कधीही पापाने लिप्त होत नाही व त्याला सुखोपभोग आणि मुक्ति मिळतात.
शुभमस्तु ।
Post Views: 38