Ramraksha Samas Vigrah Vishleshan 2
वज्रपंजर नावाच्या कवचातील समास विग्रह शब्द व्युत्पत्तय आणि विश्लेषण यांचा आज अभ्यास करूया. भाग २.
रामरक्षा स्तोत्रामधील वज्रपंजर कवचाचा आपण सखोल अभ्यास करत आहोत.
वज्रपंजर या नावाचे हे कवच आहे.
आपले रक्षण प्रभू श्रीरामचंद्रांनी करावे, यासाठी रामरक्षेच्या चौथ्या श्लोकापासून, आपल्या शरीराच्या एकेका अवयवाचे रक्षण प्रभू श्रीरामचंद्रांनी कसे करावे, यासाठी प्रभू श्रीरामचंद्रांना केलेली ही विंनती आहे, प्रार्थना आहे.
२३ करौ “कर” (= हात, विशेषेकरून हाताचा पंजा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२४ सीता-पतिः ।
- २४.१ सीतायाः पतिः = सीतापतिः । षष्ठी-तत्पुरुषः ।
- २४.२ सीतायाः “सीता” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- २४.३ पतिः “पति” इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
२५ हृदयम् “हृदय” इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२६ जामदग्न्य-जित् ।
- २६.१ जामदग्न्यः जितः येन सः = जामदग्न्यजित् । उपपद-बहुव्रीहिः ।
- २६.२ जामदग्न्यः “जमदग्नेः अयम् इति जामद्ग्न्यः” एवम् “जामदग्न्य” (= परशुराम) इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २६.३ जमदग्नेः “जमदग्नि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- २६.४ जितः “जि” १ प. (= जिंकणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जित” (= जिंकला गेलेला, हरलेला, पराभूत झालेला) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २६.५ जामदग्न्यजित् = ज्याने परशुरामाला जिंकले तो
२७ मध्यम् “मध्य” (= मधे असलेला-ली-ले) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२८ खर-ध्वंसी ।
- २८.१ खरस्य ध्वंसी = खरध्वंसी । षष्ठी-तत्पुरुषः ।
- २८.२ खरस्य “खर” (= दुष्ट, “खर” नांवाचा दुष्ट राक्षस) इति विशेषणम् पुल्लिङ्गि विशेषनाम च । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- २८.३ ध्वंसी “ध्वंस्” १ आ. (= नाश करणें) इति धातुः । तस्मात् “इन्”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “ध्वंसिन्” (= नाश करणारा-री-रें) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- २८.४ खरध्वंसी = खराचा नाश करणारा ।
२९ नाभिम् “नाभि” इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३० जाम्बवत्-आश्रयः ।
- ३०.१ जाम्बवतः आश्रयः = जाम्बवदाश्रयः । षष्ठी-तत्पुरुषः ।
- ३०.२ जाम्बवतः “जाम्बवत्” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३०.३ आश्रयः “आ + श्रि” १ उ. (= आसरा घेणे) । तस्मात् “अ”-प्रत्ययेन भाववाचकम् पुल्लिङ्गि नाम “आश्रय” (= आसरा घेण्याचे स्थान) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३०.४ जाम्बवदाश्रयः = जाम्बवताने ज्याचा आसरा घेतला, तो
३१ सुग्रीव-ईशः ।
- ३१.१ सुष्ठु ग्रीवा यस्य सः = सुग्रीवः । बहुव्रीहिः ।
- ३१.२ सुग्रीवस्य ईशः = सुग्रीवेशः । षष्ठी-तत्पुरुषः । अथवा
- ३१.२.१ सुग्रीवस्य “सुग्रीव” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३१.३ ग्रीवा (= मान) इति स्त्रीलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३१.४ सुग्रीवेशः = सुग्रीवाचा स्वामी
३२ कटी “कटि” (= कमरेची बाजू) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३३ सक्थिनी “सक्थि”(= मांडीचा वरचा भाग) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३४ हनुमत्-प्रभुः ।
- ३४.१ हनुमतः प्रभुः = हनुमत्प्रभुः । षष्ठी-तत्पुरुषः ।
- ३४.२ हनुमतः “हनु + मत् = हनुः अस्य वैशिष्ट्यम्” इति विशेषण-युक्तम् पुल्लिङ्गि विशेषनाम “हनुमत्” । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३४.३ प्रभुः “प्रकर्षेण भवति वा प्रभावः अस्य अस्ति” इति पुल्लिङ्गि सामान्यनाम “प्रभु”। तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३४.४ हनुमत्प्रभुः = हनुमंताचा प्रभू
३५ ऊरू “ऊरु” (= मांडी) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३६ रघु-उत्तमः॥
- ३६.१ रघूणाम् उत्तमः = रघूत्तमः । षष्ठी-तत्पुरुषः । अथवा
- ३६.१-अ रघुषु उत्तमः = रघूत्तमः । सप्तमी-तत्पुरुषः ।
- ३६.२ रघूणाम् “रघु” (= रघुकुळात जन्मलेला) इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ३६.३ उत्तमः “उत्तम = उत् + तम” । “उत्”-उपसर्गः “उच्चैः”-इत्यर्थेन । “तम”-प्रत्ययः विशेषणस्य “तम”-भावाय ।
३७ रक्षः-कुल-विनाश-कृत् ।
- ३७.१ रक्षसाम् कुलम् = रक्षःकुलम् । षष्ठी-तत्पुरुषः ।
- ३७.२ रक्षःकुलस्य विनाशः = रक्षःकुलविनाशः । षष्ठी-तत्पुरुषः ।
- ३७.३ रक्षःकुलविनाशम् कृतवान् इति रक्षःकुलविनाशकृत् । उपपद-तत्पुरुषः ।
- ३७.४ रक्षसाम् “रक्षस्” (= राक्षस) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ३७.५ कुलम् “कुल” (= समूह, एकच राक्षस नव्हे, कुल म्हणजे खूप राक्षस मिळून त्यांचे कूळच्या कूळ, ह्याअर्थी) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३७.६ विनाशः “वि + नश्” ४ प. (= नाश पावणे) इति धातुः । तस्मात् भाववाचकम् पुल्लिङ्गि नाम “विनाश” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३७.७ कृतवान् “कृ” ८ उ. (= करणें) इति धातुः । तस्मात् “वत्”-प्रत्ययेन विशेषणम् “कृतवत्” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३७.८ रक्षःकुलविनाशकृत् = ज्याने राक्षसांच्या कुळाचा विनाश केला, तो
३८ जानुनी “जानु” (= गुडघा) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
३९ सेतु-कृत् ।
- ३९.१ सेतुम् कृतवान् इति सेतुकृत् । उपपद-तत्पुरुषः ।
- ३९.२ सेतुम् “सि” ५, ९ उ. (= बांधणे) इति धातुः । तस्मात् “सिन्यते अनेन इति सेतुः” एवम् पुल्लिङ्गि नाम “सेतु” (= पूल) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- ३९.३ सेतुकृत् = ज्याने सेतु बांधविला, तो
४० जङ्घे “जङ्घा” (= पिंढरी, पायाचा गुडघा आणि घोटा यामधील भाग) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४१ दश-मुख-अन्त-कः ।
- ४१.१ दश मुखानि यस्य सः = दशमुखः । बहुव्रीहिः ।
- ४१.२ दशमुखस्य अन्तः = दशमुखान्तः । षष्ठी-तत्पुरुषः ।
- ४१.३ दशमुखान्तम् कृतवान् इति दशमुखान्तकः । उपपद-तत्पुरुषः ।
- ४१.४ दशमुखस्य “दशमुख” (= दहा तोंडे असलेला, रावण) इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ४१.५ दशमुखान्तकः = ज्याने रावणाचा अन्त केला तो
४२ पादौ “पाद” (= पाऊल) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
४३ वि-भीषण-श्री-दः ।
- ४३.१ श्रियम् ददाति इति श्रीदः । उपपद-तत्पुरुषः ।
- ४३.२ विभीषणाय श्रीदः = विभीषणश्रीदः । चतुर्थी-तत्पुरुषः ।
- ४३.३ श्रियम् “श्री” (= कल्याणकारी वैभव) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- ४३.४ ददाति “दा” ३ उ. (= देणे) इति धातुः । तस्य लट्-वर्तमाने तृतीयपुरुषे एकवचनम् ।
- ४३.५ विभीषणाय “वि + भी” ३ प. (= विशेषच घाबरणे) इति धातुः । तस्मात् विशेषणात्मकम् पुल्लिङ्गि विशेषनाम “विभीषण” (= विशेषच भीति वाटावी असा, रावणाचा भाऊ विभीषण) । तस्य चतुर्थी विभक्तिः एकवचनम् च ।
- ४३.६ विभीषणश्रीदः = ज्याने विभीषणाला कल्याणकारी वैभव दिले तो
४४ रामः “राम” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४५ अखिलम् “अखिल” (= सम्पूर्ण) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
४६ वपुः “वपु” (= देह, शरीर) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
समास विग्रह शब्द व्युत्पत्तय आणि विश्लेषण यांच्या दुसऱ्या भागाचा अभ्यास आज आपण पूर्ण केला आहे. श्रीरामार्पणमस्तु ।